Sukta 3.8
यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष । ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥
यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ । ते दे॒वास॒: स्वर॑वस्तस्थि॒वांस॑: प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥
yā́n vo náro devayánto nimimyúr vánaspate svádhitir vā tatákṣa | té devā́saḥ sváravas tasthivā́ṃsaḥ prajā́vad asmé didhiṣantu rátnaṃ ||
O Lord of the wood, what your god-seeking men have measured out, or what the bright axe has shaped—may those gods, standing in their own radiance, place in us a treasure rich in progeny (a fullness that generates).
यान् । वः॒ । नरः॑ । दे॒व॒ऽयन्तः॑ । नि॒ऽमि॒म्युः । वन॑स्पते । स्वऽधि॑तिः । वा॒ । त॒तक्ष॑ । ते । दे॒वासः॑ । स्वर॑वः । त॒स्थि॒ऽवांसः॑ । प्र॒जाऽव॑त् । अ॒स्मे इति॑ । दि॒धि॒ष॒न्तु॒ । रत्न॑म् ॥यान् । वः । नरः । देवयन्तः । निमिम्युः । वनस्पते । स्वधितिः । वा । ततक्ष । ते । देवासः । स्वरवः । तस्थिवांसः । प्रजावत् । अस्मे इति । दिधिषन्तु । रत्नम् ॥yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa | te | devāsaḥ | svaravaḥ | tasthi-vāṃsaḥ | prajāvat | asme iti | didhiṣantu | ratnam