Sukta 3.8
ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः । ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥
yé vṛkṇā́so ádhi kṣámi nímitāso yatásrucaḥ | té no vyantu vā́ryaṃ devatrā́ kṣetrasā́dhasaḥ ||
Those that are cut and set upon the earth, with ladles held in right control—may they win for us the choicest plenitude, in the godward way, they who accomplish the field (the ordered ground of works).
ये । वृ॒क्णासः॑ । अधि॑ । क्षमि॑ । निऽमि॑तासः । य॒तऽस्रु॑चः । ते । नः॒ । व्य॒न्तु॒ । वार्य॑म् । दे॒व॒ऽत्रा । क्षे॒त्र॒ऽसाध॑सः ॥ये । वृक्णासः । अधि । क्षमि । निमितासः । यतस्रुचः । ते । नः । व्यन्तु । वार्यम् । देवत्रा । क्षेत्रसाधसः ॥ye | vṛkṇāsaḥ | adhi | kṣami | ni-mitāsaḥ | yata-srucaḥ | te | naḥ | vyantu | vāyarm | deva-trā | kṣetra-sādhasaḥ