Sukta 3.8
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥
जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥
jā́to jā́yate sudinatvé ahnā́ṃ samaryá ā́ vidáthe várdhamānaḥ | punánti dhīrā́ apáso manīṣā́ devayā́ vípra úd iyarti vā́cam ||
Born, he is born again into the fair-dayhood of the days, growing in the common movement, in the assembly. The steadfast purify the works by inspired intelligence; the godward sage lifts up the Word.
जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । स॒ऽम॒र्ये । आ । वि॒दथे॑ । वर्ध॑मानः । पु॒नन्ति॑ । धीराः॑ । अ॒पसः॑ । म॒नी॒षा । दे॒व॒ऽयाः । विप्रः॑ । उत् । इ॒य॒र्ति॒ । वाच॑म् ॥जातः । जायते । सुदिनत्वे । अह्नाम् । समर्ये । आ । विदथे । वर्धमानः । पुनन्ति । धीराः । अपसः । मनीषा । देवयाः । विप्रः । उत् । इयर्ति । वाचम् ॥jātaḥ | jāyate | sudina-tve | ahnām | sa-marye | ā | vidathe | vardhamānaḥ | punanti | dhīrāḥ | apasaḥ | manīṣā | deva-yāḥ | vipraḥ | ut | iyarti | vācam