Sukta 3.8
युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
युवा॑ सु॒वासा॒: परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्त॑: ॥
yuvā́ su-vāsā́ḥ párivīta ā́gāt sá u śréyān bhavati jā́yamānaḥ | táṃ dhīrā́saḥ kaváya ún nayanti svādhyò manasā devayántaḥ ||
Youthful, well-clad, fully encompassed (by his own radiance), he comes; and even as he is being born he becomes the more excellent. Him the steadfast seers, the poets, uplift—self-mastered—by a mind that seeks the Divine.
युवा॑ । सु॒ऽवासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ऊँ॒ इति॑ । श्रेया॑न् । भ॒व॒ति॒ । जाय॑मानः । तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति॒ । सु॒ऽआ॒ध्यः॑ । मन॑सा । दे॒व॒ऽयन्तः॑ ॥युवा । सुवासाः । परिवीतः । आ । अगात् । सः । ऊँ इति । श्रेयान् । भवति । जायमानः । तम् । धीरासः । कवयः । उत् । नयन्ति । सुआध्यः । मनसा । देवयन्तः ॥yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt | saḥ | oṃ iti | śreyān | bhavati | jāyamānaḥ | tam | dhīrāsaḥ | kavayaḥ | ut | nayanti | su-ādhyaḥ | manasā | deva-yantaḥ