Sukta 3.8
उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि । सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥
ucchrā́yasva vanaspate várṣman pṛthivyā́ ádhi | su-mítī mīyámāno várco dhā yajñá-vāhase ||
Rise up, O Lord of the Wood, upon the height of the Earth. Measured out in a right harmony, place the splendor for the bearer of the sacrifice.
उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म॑न् । पृ॒थि॒व्याः । अधि॑ । सुऽमि॑ती । मी॒यमा॑नः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥उत् । श्रयस्व । वनस्पते । वर्ष्मन् । पृथिव्याः । अधि । सुमिती । मीयमानः । वर्चः । धाः । यज्ञवाहसे ॥ut | śrayasva | vanaspate | varṣman | pṛthivyāḥ | adhi | su-mitī | mīyamānaḥ | varcaḥ | dhāḥ | yajña-vāhase