Sukta 3.8
समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् । आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् । आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥
sam-iddhásya śráyamāṇaḥ purástād bráhma vanvā́nó ajáraṃ su-vī́ram | āré asmád amátiṃ bā́dhamāna ucchrā́yasva mahaté saúbhagāya ||
Leaning forward before the kindled flame, conquering by the Word an undecaying and heroic power, drive far from us the crookedness of mind; rise up for a great good-fortune.
सम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् । आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥सम्इद्धस्य । श्रयमाणः । पुरस्तात् । ब्रह्म । वन्वानः । अजरम् । सुवीरम् । आरे । अस्मत् । अमतिम् । बाधमानः । उत् । श्रयस्व । महते । सौभगाय ॥sam-iddhasya | śrayamāṇaḥ | purastāt | brahma | vanvānaḥ | ajaram | su-vīram | āre | asmat | amatim | bādhamānaḥ | ut | śrayasva | mahate | saubhagāya