Sukta 3.8
अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥
añjanti tvām adhvaré deva-yánto vánaspate mádhunā daivyéna | yád ūrdhvás tíṣṭhā dráviṇeha dhattā́t yád vā́ kṣáyo mātúr asyā́ upásthe ||
They anoint thee in the sacrifice, O Lord of the Wood, with the divine honey. When thou standest upright, set here the inner riches; or when thou hast thy dwelling in the lap of this Mother, then too establish the gain.
अ॒ञ्जन्ति॑ । त्वाम् । अ॒ध्व॒रे । दे॒व॒ऽयन्तः॑ । वन॑स्पते । मधु॑ना । दैव्ये॑न । यत् । ऊ॒र्ध्वः । ति॒ष्ठाः॑ । द्रवि॑ना । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः॑ । मा॒तुः । अ॒स्याः । उ॒पऽस्थे॑ ॥अञ्जन्ति । त्वाम् । अध्वरे । देवयन्तः । वनस्पते । मधुना । दैव्येन । यत् । ऊर्ध्वः । तिष्ठाः । द्रविना । इह । धत्तात् । यत् । वा । क्षयः । मातुः । अस्याः । उपस्थे ॥añjanti | tvām | adhvare | deva-yantaḥ | vanaspate | madhunā | daivyena | yat | ūrdhvaḥ | tiṣṭhāḥ | dravinā | iha | dhattāt | yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe