Sukta 3.8
शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥
शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्त॒: स्वर॑वः पृथि॒व्याम् । वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥
śṛṅgā́ṇīvecchṛṅgíṇāṃ sáṃ dadṛśre caṣā́lavantaḥ sváravaḥ pṛthivyā́m | vāghádbhir vā viháve śróṣamāṇā asmā́m avantu pṛtanā́jyeṣu ||
Like the horns of the horned, they are seen together—bearing the caṣāla, the svar-sounding powers upon the earth. Whether with the singers or in the call of invocation, hearkening, may they protect us in the battles for mastery.
शृङ्गा॑णिऽइव । शृ॒ङ्गिणा॒म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् । वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥शृङ्गाणिइव । शृङ्गिणाम् । सम् । ददृश्रे । चषालवन्तः । स्वरवः । पृथिव्याम् । वाघत्भिः । वा । विहवे । श्रोषमाणाः । अस्मान् । अवन्तु । पृतनाज्येषु ॥śṛṅgāṇi-iva | śṛṅgiṇām | sam | dadṛśre | caṣāla-vantaḥ | svaravaḥ | pṛthivyām | vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ | asmān | avantu | pṛtanājyeṣu