Sukta 3.8
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥
वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम । यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥
vánaspate śatávalśo ví roha sahásravalśā ví vayáṃ ruhema | yáṃ tvām ayáṃ svádhitís téjamānaḥ praṇinā́ya mahaté saúbhagāya ||
O Lord of the wood, grow forth with a hundred shoots; with a thousand shoots may we grow forth. You whom this shining axe has led forward—(lead us) to a great good fortune: a vastness of fulfilled being.
वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ । यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥वनस्पते । शतवल्शः । वि । रोह । सहस्रवल्शाः । वि । वयम् । रुहेम । यम् । त्वाम् । अयम् । स्वधितिः । तेजमानः । प्रनिनाय । महते । सौभगाय ॥vanaspate | śata-valśaḥ | vi | roha | sahasra-valśāḥ | vi | vayam | ruhema | yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ | pra-nināya | mahate | saubhagāya