Sukta 3.8
हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥
हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑ना॒: स्वर॑वो न॒ आगु॑: । उ॒न्नी॒यमा॑नाः क॒विभि॑: पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथ॑: ॥
haṃsā́ iva śreṇiśó yatā́nāḥ śukrā́ vásānāḥ sváravo na ā́guḥ | unnīyámānāḥ kavíbhiḥ purástād devā́ devā́nām ápi yanti pā́thaḥ ||
Like swans in ordered flight they come, arrayed in brightness, crying the svar; led upward by the seers from the front, the gods go on the path that reaches to the gods.
हं॒साःऽइ॑व । श्रे॒णि॒शः । यता॑नाः । शु॒क्राः । वसा॑नाः । स्वर॑वः । नः॒ । आ । अ॒गुः॒ । उ॒त्ऽनी॒यमा॑नाः । क॒विऽभिः॑ । पु॒रस्ता॑त् । दे॒वाः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ॥हंसाःइव । श्रेणिशः । यतानाः । शुक्राः । वसानाः । स्वरवः । नः । आ । अगुः । उत्नीयमानाः । कविभिः । पुरस्तात् । देवाः । देवानाम् । अपि । यन्ति । पाथः ॥haṃsāḥ-iva | śreṇiśaḥ | yatānāḥ | śukrāḥ | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ | ut-nīyamānāḥ | kavi-bhiḥ | purastāt | devāḥ | devānām | api | yanti | pāthaḥ