Sukta 3.62
शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत । अनाम्योज आ चके ॥
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत । अना॒म्योज॒ आ च॑के ॥
śúciṃ arkáir bṛ́haspátim adhvaréṣu namasyata | anā́my ója ā́ cake ||
With radiant hymns adore Bṛhaspati in the offerings; for he has made ready an unbending strength—an energy that does not fail.
शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ । अना॑मि । ओजः॑ । आ । च॒के॒ ॥शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत । अनामि । ओजः । आ । चके ॥śucim | arkaiḥ | bṛhaspatim | adhvareṣu | namasyata | anāmi | ojaḥ | ā | cake