Sukta 3.60
इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्त्सवने शच्या पुरुष्टुत । इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥
इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥
índra ṛbhumā́n vājá-vān matsvéhá no ’smín sávane śácyā puru-stuta | imā́ni túbhyaṃ svásarāṇi yemire vratā́ devā́nāṃ mánuṣaś ca dhárma-bhiḥ ||
O Indra, rich in the Ribhus and in plenitude of force, rejoice here in this our pressing by your power, O much-praised. These sister-powers have been yoked for you—according to the laws of the gods and the human ordinances that uphold the right order.
इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ । इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥इन्द्र । ऋभुमान् । वाजवान् । मत्स्व । इह । नः । अस्मिन् । सवने । शच्या । पुरुस्तुत । इमानि । तुभ्यम् । स्वसराणि । येमिरे । व्रता । देवानाम् । मनुषः । च । धर्मभिः ॥indra | ṛbhu-mān | vāja-vān | matsva | iha | naḥ | asmin | savane | śacyā | puru-stuta | imāni | tubhyam | svasarāṇi | yemire | vratā | devānām | manuṣaḥ | ca | dharma-bhiḥ