Sukta 3.60
इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् । शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥
इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥
índra ṛ́bhubhir vājíbhir vājáyann ihá stómam jaritúr úpa yāhi yajñíyam | śatáṃ két ebhir iṣirébhir ā́yave sahásra-nītho adhvarásya hómani ||
O Indra, with the Ribhus and the swift steeds of force, bringing the plenitude here, come near to the singer’s hymn, to what is fit for sacrifice. With a hundred keen perceptions for the seeker, you who lead by a thousand ways, be present at the offering-place of the adoration.
इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् । श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥इन्द्र । ऋभुभिः । वाजिभिः । वाजयन् । इह । स्तोमम् । जरितुः । उप । याहि । यज्ञियम् । शतम् । केतेभिः । इषिरेभिः । आयवे । सहस्रनीथः । अध्वरस्य । होमनि ॥indra | ṛbhu-bhiḥ | vāji-bhiḥ | vājayan | iha | stomam | jarituḥ | upa | yāhi | yajñi yam | śatam | ketebhiḥ | iṣirebhiḥ | āyave | sahasra-nīthaḥ | adhvarasya | homani