Sukta 3.60
इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः । धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒: समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑: स॒ह म॑त्स्वा॒ नृभि॑: ॥
índra ṛ́bhubhir vājá-vadbhíḥ sám ukṣitaṃ sutáṃ sómam ā́ vṛṣasvā gábhastyōḥ | dhiyéṣito maghavan dā́śuṣo gṛhé saudhanvanébhir sahá matsvā nṛ́bhiḥ ||
O Indra, with the Ribhus rich in plenitude of force, drink in your two hands the Soma that is pressed and made full. Urged by the thought, O giver of plenty, in the house of the offering one, rejoice together with the Saudhanvanas, with the heroic powers.
इन्द्र॑ । ऋ॒भुऽभिः॑ । वाज॑वत्ऽभिः । सम्ऽउ॑क्षितम् । सु॒तम् । सोम॑म् । आ । वृ॒ष॒स्व॒ । गभ॑स्त्योः । धि॒या । इ॒षि॒तः । म॒घ॒व॒न् । दा॒शुषः॑ । गृ॒हे । सौ॒ध॒न्व॒नेभिः॑ । स॒ह । म॒त्स्व॒ । नृऽभिः॑ ॥इन्द्र । ऋभुभिः । वाजवत्भिः । सम्उक्षितम् । सुतम् । सोमम् । आ । वृषस्व । गभस्त्योः । धिया । इषितः । मघवन् । दाशुषः । गृहे । सौधन्वनेभिः । सह । मत्स्व । नृभिः ॥indra | ṛbhu-bhiḥ | vājavat-bhiḥ | sam-ukṣitam | sutam | somam | ā | vṛṣasva | gabhastyoḥ | dhiyā | iṣitaḥ | maghavan | dāśuṣaḥ | gṛhe | saudhanvanebhiḥ | saha | matsva | nṛ-bhiḥ