Sukta 3.60
इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया । न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥
इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न व॑: प्रति॒मै सु॑कृ॒तानि॑ वाघत॒: सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥
índreṇa yātha saráthaṃ suté sacā́ṃ átho váśānāṃ bhavathā sahá śriyā́ | ná vaḥ pratímai sukṛtā́ni vāghatáḥ saudhanvanā ṛbhavo vīryā́ṇi ca ||
With Indra you move yoked on one car, close to the pressed Soma; and you become masters of the powers, together with splendour. No singer can measure your well-wrought deeds, O Saudhanvana Ribhus, nor your acts of hero-force.
इन्द्रे॑ण । या॒थ॒ । स॒ऽरथ॑म् । सु॒ते । सचा॑ । अथो॒ इति॑ । वशा॑नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या । न । वः॒ । प्र॒ति॒ऽमै । सु॒ऽकृ॒तानि॑ । वा॒घ॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या॑णि च ॥इन्द्रेण । याथ । सरथम् । सुते । सचा । अथो इति । वशानाम् । भवथ । सह । श्रिया । न । वः । प्रतिमै । सुकृतानि । वाघतः । सौधन्वनाः । ऋभवः । वीर्याणि च ॥indreṇa | yātha | sa-ratham | sute | sacā | atho iti | vaśānām | bhavatha | saha | śriyā | na | vaḥ | prati-mai | su-kṛtāni | vāghataḥ | saudhanvanāḥ | ṛbhavaḥ | vīryāṇi ca