Sukta 3.60
इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे । सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥
इन्द्र॑स्य स॒ख्यमृ॒भव॒: समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृत॑: सुकृ॒त्यया॑ ॥
índrasya sakhyám ṛ́bhavaḥ sám ānaśur mánoḥ napāto apáso dadhanvire | saudhanvanā́so amṛtatvám ériré viṣṭvī́ śámībhiḥ sukṛ́taḥ sukṛtyáyā ||
The Ribhus, children of Mano, attained the companionship of Indra; they set their works in motion and intensified the effective powers. These Saudhanvanas rose toward immortality, pervading the field by harmonising skill—perfected in action by their perfect doing.
इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ । सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥इन्द्रस्य । सख्यम् । ऋभवः । सम् । आनशुः । मनोः । नपातः । अपसः । दधन्विरे । सौधन्वनासः । अमृतत्वम् । आ । ईरिरे । विष्ट्वी । शमीभिः । सुकृतः । सुकृत्यया ॥indrasya | sakhyam | ṛbhavaḥ | sam | ānaśuḥ | manoḥ | napātaḥ | apasaḥ | dadhanvire | saudhanvanāsaḥ | amṛta-tvam | ā | īrire | viṣṭavī | śamībhiḥ | su-kṛtaḥ | su-kṛtyayā