Sukta 3.60
याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः । येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥
याभि॒: शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒: समा॑नश ॥
yā́bhiḥ śácībhiś camasā́ṃ apiṃśata yayā́ dhiyā́ gā́m ariṇīta cármaṇaḥ | yéna hárī mánasā nír-atakṣata téna devatvám ṛbhavaḥ sám ānaśa ||
By those master-powers they shaped the cups; by that vision they made the Cow out of the hide. By that with which, by mind, they fashioned the two bright steeds—by that the Ṛbhus altogether attained divinity.
याभिः॑ । शची॑भिः । च॒म॒साम् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः । येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒नश ॥याभिः । शचीभिः । चमसाम् । अपिंशत । यया । धिया । गाम् । अरिणीत । चर्मणः । येन । हरी इति । मनसा । निःअतक्षत । तेन । देवत्वम् । ऋभवः । सम् । आनश ॥yābhiḥ | śacībhiḥ | camasām | apiṃśata | yayā | dhiyā | gām | ariṇīta | carmaṇaḥ | yena | harī iti | manasā | niḥ-atakṣata | tena | deva-tvam | ṛbhavaḥ | sam | ānaśa