Sukta 3.60
इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा । याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभि॒: प्रति॑जूतिवर्पस॒: सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥
ihéha vo mánasā bandhutā nara uśíjo jagmur abhí tā́ni védasā | yā́bhir māyā́bhiḥ práti-jūti-varpasaḥ saúdhannvanā yajñíyaṃ bhāgám ānaśa ||
Here, here, O heroic ones, by the mind’s kinship the eager seekers have come to those workings with knowledge—by those powers of formation through which, with counter-stimulating forms of force, the Sons of Sudhanvan attained the share that is fit for the sacrifice.
इ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा । याभिः॑ । मा॒याभिः । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥इहइह । वः । मनसा । बन्धुता । नरः । उशिजः । जग्मुः । अभि । तानि । वेदसा । याभिः । मायाभिः । प्रतिजूतिवर्पसः । सौधन्वनाः । यज्ञियम् । भगम् । आनश ॥iha-iha | vaḥ | manasā | bandhutā | naraḥ | uśijaḥ | jagmuḥ | abhi | tāni | vedasā | yābhiḥ | māyābhiḥ | pratijūti-varpasaḥ | saudhanvanāḥ | yajñiyam | bhagam | ānaśa