Sukta 3.6
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह मादयस्व ॥
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वा॑: । पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
áibhir agne sa-rátham yāhy arvā́ṅ nā́nā-ratham vā vibhávo hy áśvāḥ | pátnīvatās triṃśátam trī́ṃś ca devā́n anúsvadham ā́ vaha mā́dayasva ||
With these, O Agni, come hither in one accorded chariot—or in many chariots, for your horses have manifold powers. Bring here the thrice ten and three gods together with their Shaktis (patnīs), according to their own right delight; and rejoice in the fulfilled offering.
आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒नाऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ । पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥आ । एभिः । अग्ने । सरथम् । याहि । अर्वाङ् । नानारथम् । वा । विभवः । हि । अश्वाः । पत्नीवतः । त्रिंशतम् । त्रीन् । च । देवान् । अनुस्वधम् । आ । वह । मादयस्व ॥ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ | nānāratham | vā | vi-bhavaḥ | hi | aśvāḥ | patnī-vataḥ | triṃśatam | trīn | ca | devān | anu-svadham | ā | vaha | mādayasva