Sukta 3.6
स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः । प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥
स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः । प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥
sá hótā yásya ródasī cid urvī́ yajñáṃ-yajñam abhí vṛdhé gṛṇītáḥ | prā́cī adhvaréva tasthátuḥ suméke ṛtā́varī ṛtajā́tasya satyé ||
He is the Hotṛ whom even the wide Heaven-and-Earth increase by their acclaim in every sacrifice. Like two advancing pillars they stand in the rite, beautifully paired—guardians of Ṛta—established in the Truth of him who is born of Ṛta.
सः । होता॑ । यस्य॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । य॒ज्ञम्ऽय॑ज्ञम् । अ॒भि । वृ॒धे । गृ॒णी॒तः । प्राची॒ इति॑ । अ॒ध्व॒राऽइ॑व । त॒स्थ॒तुः । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । ऋ॒तऽजा॑तस्य । स॒त्ये इति॑ ॥सः । होता । यस्य । रोदसी इति । चित् । उर्वी इति । यज्ञम्यज्ञम् । अभि । वृधे । गृणीतः । प्राची इति । अध्वराइव । तस्थतुः । सुमेके इति सुमेके । ऋतवरी इत्यृतवरी । ऋतजातस्य । सत्ये इति ॥saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ | prācī iti | adhvarāiva | tasthatuḥ | sumeke itisu-meke | ṛtavarī ity ṛta-varī | ṛta-jātasya | satye iti