Sukta 3.6
महान्त्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः । आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥
म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः । आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥
mahā́nt sadhásthe dhruvá ā́ níṣatto 'ntár dyā́vā mā́hine haryamā́ṇaḥ | ā́skre sapátnī ajáre ámṛkte sabardúghe urugā́yasya dhenū́ ||
Great, firm in the common seat, he is set within the two heavens, moving with vast power. The two unfailing, unaging, uninjured, rival-less milch-cows of the wide-going One yield together their flowing milk.
म॒हान् । स॒धऽस्थे॑ । ध्रु॒वः । आ । निऽस॑त्तः । अ॒न्तः । द्यावा॑ । माहि॑ने॒ इति॑ । हर्य॑माणः । आस्क्रे॒ इति॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । अ॒जरे॒ इति॑ । अमृ॑क्ते॒ इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । उ॒रु॒ऽगा॒यस्य॑ । धे॒नू इति॑ ॥महान् । सधस्थे । ध्रुवः । आ । निसत्तः । अन्तः । द्यावा । माहिने इति । हर्यमाणः । आस्क्रे इति । सपत्नी इति सपत्नी । अजरे इति । अमृक्ते इति । सबर्दुघे इति सबःदुघे । उरुगायस्य । धेनू इति ॥mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ | antaḥ | dyāvā | māhineiti | haryamāṇaḥ | āskre iti | sapatnī itisa-patnī | ajareiti | amṛkte iti | sabardugheitisabaḥ-dughe | uru-gāyasya | dhenū iti