Sukta 3.6
द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥
द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयन्त॒ि दमा॑य । यदी॒ विशो॒ मानु॑षीर्देव॒यन्ती॒: प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥
dyáuś ca tvā pṛthivī́ yajñiyā́so ní hotā́raṃ sādayanti damā́ya | yadī́ víśo mā́nuṣīr devayántīḥ práyasvatīr ī́ḷate śúkram arcíḥ ||
Heaven and Earth, worthy of sacrifice, seat you as the Hotar in the home, when the human peoples, seeking the gods, rich in offering-substance, adore your bright flame.
द्यौः । च॒ । त्वा॒ । पृ॒थि॒वी । य॒ज्ञिया॑सः । नि । होता॑रम् । सा॒द॒य॒न्ते॒ । दमा॑य । यदि॑ । विशः॑ । मानु॑षीः । दे॒व॒ऽयन्तीः॑ । प्रय॑स्वतीः । ईळ॑ते । शु॒क्रम् । अ॒र्चिः ॥द्यौः । च । त्वा । पृथिवी । यज्ञियासः । नि । होतारम् । सादयन्ते । दमाय । यदि । विशः । मानुषीः । देवयन्तीः । प्रयस्वतीः । ईळते । शुक्रम् । अर्चिः ॥dyauḥ | ca | tvā | pṛthivī | yajñiyāsaḥ | ni | hotāram | sādayante | damāya | yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ | prayasvatīḥ | īḷate | śukram | arciḥ