Sukta 3.6
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥
व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ । त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ॥
vratā́ te agne maható mahā́ni táva kratvā́ rodasī́ ā́ tatantha | tváṃ dūtó abhavo jā́yamānas tváṃ netā́ vṛṣabha carṣaṇīnā́m ||
Great are your laws, O Agni, mighty indeed; by your power you have stretched out the two worlds. You became the messenger at your birth; you are the leader, O Bull, of the human kindreds.
व्र॒ता । ते॒ । अ॒ग्ने॒ । म॒ह॒तः । म॒हानि॑ । तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय॑मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥व्रता । ते । अग्ने । महतः । महानि । तव । क्रत्वा । रोदसी इति । आ । ततन्थ । त्वम् । दूतः । अभवः । जायमानः । त्वम् । नेता । वृषभ । चर्षणीनाम् ॥vratā | te | agne | mahataḥ | mahāni | tava | kratvā | rodasī iti | ā | tatantha | tvam | dūtaḥ | abhavaḥ | jāyamānaḥ | tvam | netā | vṛṣabha | caṣarṇīnām