Sukta 3.6
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥
आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो । दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥
ā́ rodasī apṛṇā jā́yamāna utá prá rikthā ádha nú prayajyo | diváś cid agne mahinā́ pṛthivyā́ vacyántāṃ te váhnayaḥ saptájihvāḥ ||
At your birth you filled the two worlds, and you have gone forth to your inheritance—now as the one who leads the offering-work. O Agni, by your greatness beyond even heaven and earth, may your bearers, the seven-tongued powers, be voiced into action.
आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः । उ॒त । प्र । रि॒क्थाः॒ । अध॑ । नु । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता॑म् । ते॒ । वह्न॑यः । स॒प्तऽजि॑ह्वाः ॥आ । रोदसी इति । अपृणाः । जायमानः । उत । प्र । रिक्थाः । अध । नु । प्रयज्यो इति प्रयज्यो । देवः । चित् । अग्ने । महिना । पृथिव्याः । वच्यन्ताम् । ते । वह्नयः । सप्तजिह्वाः ॥ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | uta | pra | rikthāḥ | adha | nu | prayajyo itipra-yajyo | devaḥ | cit | agne | mahinā | pṛthivyāḥ | vacyantām | te | vahnayaḥ | sapta-jihvāḥ