Sukta 3.59
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥
mitró jánāny ātayati bruvāṇó mitró dādhāra pṛthivī́m utá dyā́m | mitráḥ kṛṣṭī́r ánimiṣā́bhi caṣṭe mitrā́ya havyáṁ ghṛtávaj juhota ||
Mitra, speaking the right word, sets the peoples in their true movement; Mitra upholds Earth and also Heaven. Mitra, with unblinking vision, regards the races of men. Offer the oblation rich with clarified light to Mitra.
मि॒त्रः । जना॑न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । मि॒त्रः । कृ॒ष्टीः । अनि॑ऽमिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय॑ । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥मित्रः । जनान् । यातयति । ब्रुवाणः । मित्रः । दाधार । पृथिवीम् । उत । द्याम् । मित्रः । कृष्टीः । अनिमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृतवत् । जुहोत ॥mitraḥ | janān | yātayati | bruvāṇaḥ | mitraḥ | dādhāra | pṛthivīm | uta | dyām | mitraḥ | kṛṣṭīḥ | animiṣā | abhi | caṣṭe | mitrāya | havyam | ghṛta-vat | juhota