Sukta 3.57
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥
अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा । इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥
ácchā vivakmi ródasī suméke grā́vṇo yujānó adhvaré manīṣā́ | imā́ u te mánave bhū́rivārā ūrdhvā́ bhavanti darśatā́ yajatrā́ḥ ||
To Heaven-and-Earth, the two well-fixed, I utter the word—yoking the pressing-stone in the sacrifice by inspired thought. These for you, O Man (the thinker), rich in desirable gifts, rise upward—visible and worthy of offering.
अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा । इ॒माः । ऊँ॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥अच्छ । विवक्मि । रोदसी इति । सुमेके इति सुमेके । ग्राव्णः । युजानः । अध्वरे । मनीषा । इमाः । ऊँ इति । ते । मनवे । भूरिवाराः । ऊर्ध्वाः । भवन्ति । दर्शताः । यजत्राः ॥accha | vivakmi | rodasī iti | sumeke itisu-meke | grāvṇaḥ | yujānaḥ | adhvare | manīṣā | imāḥ | oṃ iti | te | manave | bhūri-vārāḥ | ūrdhvāḥ | bhavanti | darśatāḥ | yajatrāḥ