Sukta 3.57
या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् । अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् । अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥
yā́ jāmáyo vṛ́ṣṇá icchánti śaktíṃ namasyántīr jānate gárbham asmín | ácchā putráṃ dhēnávō vāvaśānā́ maháś caranti bíbhrataṃ vápūṃṣi ||
Those sisters who seek the Power of the mighty One, bowing, come to know the embryo within this. Calling toward the Son, the Cows cry out; they move in the Vast, bearing their forms.
याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् । अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥याः । जामयः । वृष्णे । इच्छन्ति । शक्तिम् । नमस्यन्तीः । जानते । गर्भम् । अस्मिन् । अच्छ । पुत्रम् । धेनवः । वावशानाः । महः । चरन्ति । बिभ्रतम् । वपूंषि ॥yā | jāmaya | vṛṣṇe | icchanti | śaktim | namasyantīḥ | jānate | garbham | asmin | accha | putram | dhenavaḥ | vāvaśānāḥ | mahaḥ | caranti | bibhratam | vapūṃṣi