Sukta 3.57
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥
इन्द्र॒: सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे । विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥
índraḥ sú pūṣā́ vṛ́ṣaṇā suhástā divó ná prītā́ḥ śaśayáṃ duduhre | víśve yád asyā́m raṇáyanta devā́ḥ prá vo 'trá vasavaḥ sumnám aśyām ||
Indra and Pūṣan, the strong bulls with good hands, milked out the resting sweetness like heaven rejoicing. When all the gods take delight in her, may we here attain your grace, O Vasus.
इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ । विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥इन्द्रः । सु । पूषा । वृषणा । सुहस्ता । दिवः । न । प्रीताः । शशयम् । दुदुह्रे । विश्वे । यत् । अस्याम् । रणयन्त । देवाः । प्र । वः । अत्र । वसवः । सुम्नम् । अश्याम् ॥indraḥ | su | pūṣā | vṛṣaṇā | su-hastā | divaḥ | na | prītāḥ | śaśayam | duduhre | viśve | yat | asyām | raṇayanta | devāḥ | pra | vaḥ | atra | vasavaḥ | sumnam | aśyām