Sukta 3.57
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् । सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् । स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥
prá me vivikvā́m ávidan manīṣā́m dhēnúm cárantīm práyutām ágopām | sadyáś cid yā́ duduhé bhū́ri dhāsér índras tád agníḥ panitā́ro asyāḥ ||
Forward for me the discerning one found the inspired thought: the Cow that moves, far-driven and unguarded. At once she yielded abundant nourishment of her substance; Indra and Agni were the seekers and possessors of her.
प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् । स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥प्र । मे । विविक्वान् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्रयुताम् । अगोपाम् । सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः ॥pra | me | vivikvaan | avidat | manīṣām | dhenum | carantīm | pra-yutām | agopām | sadyaḥ | cit | yā | duduhe | bhūri | dhāseḥ | indraḥ | tat | agniḥ | panitāraḥ | asyāḥ