Sukta 3.56
त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी । आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥
trír ā́ diváḥ savitā́ sóṣavīti rājānā mitrā́váruṇā supāṇī́ | ā́paś cid asya ródasī cid urvī́ rátnam bhikṣanta savitúḥ savā́ya ||
Thrice from heaven Savitṛ impels his movement; and Mitra and Varuṇa, the two kings with good hands, support it. Even the Waters and the wide pair of Heaven-and-Earth ask for the treasure, for the impulsion of Savitṛ’s creating drive.
त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥त्रिः । आ । दिवः । सविता । सोषवीति । राजाना । मित्रावरुणा । सुपाणी इति सुपाणी । आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय ॥triḥ | ā | divaḥ | savitā | soṣavīti | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | āpaḥ | cit | asya | rodasī iti | cit | urvī iti | ratnam | bhikṣanta | savituḥ | savāya