Sukta 3.56
त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः । त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्न॑: । त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥
trír ā́ diváḥ savitar vā́ryāṇi divédiva ā́ suva trír no áhnaḥ | tridhā́tu rāyá ā́ suva vásūni bhága trātar dhiṣaṇe sātáye dhāḥ ||
Thrice from the heaven, O Savitṛ, bring forth the desirable boons; day by day set them in motion—thrice for us through the days. From the triple realm pour out the riches and the good treasures; O Bhaga, protector, establish in our understanding the power to win.
त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ । त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥त्रिः । आ । दिवः । सवितः । वार्याणि । दिवेदिवे । आ । सुव । त्रिः । नः । अह्नः । त्रिधातु । रायः । आ । सुव । वसूनि भग । त्रातः । धिषणे । सातये । धाः ॥triḥ | ā | divaḥ | savitaḥ | vāryāṇi | dive--dive | ā | suva | triḥ | naḥ | ahnaḥ | tri--dhātu | rāyaḥ | ā | suva | vasūni bhaga | trātaḥ | dhiṣaṇe | sātaye | dhāḥ