Sukta 3.56
त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः । ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः । ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥
trír uttamā́ dūṇáśā rocanā́ni tráyo rājanty ásurasya vīrā́ḥ | ṛtā́vān iṣirā́ dūḷábhāsas trír ā́ divó vidáthē santu devā́ḥ ||
Thrice are the highest luminous realms, hard to assail; three are the heroes of the Asura who reign there. Possessed of the Right, impetuous and difficult to overcome—may these gods come thrice from heaven into the session of our offering.
त्रिः । उ॒त्ऽत॒मा दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः । ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥त्रिः । उत्तमा दुःनशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः । ऋतवानः । इषिराः । दुःदभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः ॥triḥ | ut-tamā duḥ-naśā | rocanāni | trayaḥ | rājanti | asurasya | vīrāḥ | ṛta-vānaḥ | iṣirāḥ | duḥ-dabhāsaḥ | triḥ | ā | divaḥ | vidathe | santu | devāḥ