Sukta 3.56
त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् । ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥
त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् । ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥
trī ṣaḍhásthā síndhavas tríḥ kavīnā́m utá trímātā vidáthēṣu samrā́ṭ | ṛtā́varīr yóṣaṇās tisró apyā́s trír ā́ divó vidáthē pátyamānāḥ ||
Three are the Rivers set in the sixfold foundation; threefold is the working of the seers; and the Three-Mother is sovereign in the gatherings. Three are the maidens who increase the Right, three are the waters of the deep: thrice they move from the heaven, governing in the sessions of the sacrifice.
त्री । ष॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् । ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥त्री । षधस्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रिमाता । विदथेषु । सम्राट् । ऋतवरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः ॥trī | ṣadha-sthā | sindhavaḥ | triḥ | kavīnām | uta | tri-mātā | vidatheṣu | sam-rāṭ | ṛta-varīḥ | yoṣaṇāḥ | tisraḥ | apyāḥ | triḥ | ā | divaḥ | vidathe | patyamānāḥ