Sukta 3.56
षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः । तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगु॑: । ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥
ṣáḍbhārā́m̐ éko ácaran bibharty ṛtáṃ várṣiṣṭham úpa gā́va ā́guḥ | tísro mahī́r úparās tasthur átyā guhā́ dvé níhite dárśy ékā ||
One, moving, bears the six burdens and the most abundant Truth; the cows come near to it. Three vast upper realms stand firm; two are hidden in the secret, one is visible.
षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ । ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः । तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निहिते । दर्शि । एका ॥ṣaṭ | bhārān | ekaḥ | acaran | bibharti | ṛtam | varṣiṣṭham | upa | gāvaḥ | ā | aguḥ | tisraḥ | mahīḥ | uparāḥ | tasthuḥ | atyāḥ | guhā | dve iti | nihiteitini-hite | darśi | ekā