Sukta 3.56
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । त्र्यनीकः पत्यते माहिनावान्त्स रेतोधा वृषभः शश्वतीनाम् ॥
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् । त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥
tri-pā́jasyo vṛṣabhó viśvarū́pa utá tri-udhā́ purudhá prajā́vān | tri-anī́kaḥ patyate mā́hināvān sá reto-dhā́ vṛṣabháḥ śáśvatīnām ||
The Bull of triple splendour, all-formed, and triple-wise in many ways, full of births; triple-faced he rules, mighty in greatness. That Bull, the holder of the seed, is lord of the eternities.
त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् । त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवा॒न् । सः । रे॒तः॒ऽधा । वृ॒ष॒भः । शश्व॑तीनाम् ॥त्रिपाजस्यः । वृषभः । विश्वरूपः । उत । त्रिउधा । पुरुध । प्रजावान् । त्रिअनीकः । पत्यते । माहिनवान् । सः । रेतःधा । वृषभः । शश्वतीनाम् ॥tri-pājasyaḥ | vṛṣabhaḥ | viśva-rūpaḥ | uta | tri-udhā | purudha | prajāvān | tri-anīkaḥ | patyate | māhina-vān | saḥ | retaḥ-dhā | vṛṣabhaḥ | śaśvatīnām