Sukta 3.56
न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि । न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥
न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ । न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांस॑: ॥
ná tā́ minanti māyíno ná dhīrā́ vratā́ devā́nām prathamā́ dhruvā́ṇi | ná rodasī́ adrúhā vedyā́bhir ná párvatā ni-náme tasthi-vā́ṃsaḥ ||
The wise, though masters of power, do not violate the first and firm laws of the gods. Neither the two worlds, faithful to truth, are bent by their workings, nor the mountains that stand established are made to bow.
न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ । न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥न । ता । मिनन्ति । मायिनः । न । धीराः । व्रता । देवानाम् । प्रथमा । ध्रुवाणि । न । रोदसी इति । अद्रुहा । वेद्याभिः । न । पर्वताः । निनमे । तस्थिवांसः ॥na | tā | minanti | māyinaḥ | na | dhīrāḥ | vratā | devānām | prathamā | dhruvāṇi | na | rodasī iti | adruhā | vedyābhiḥ | na | parvatāḥ | ni-name | tasthi-vāṃsaḥ