Sukta 3.55
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् । अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥
शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् । अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
śū́rasya-iva yúdhyato antamásya pratīcī́naṁ dadṛśe víśvam āyát | antár-matíś cárati niḥ-sídhaṁ gór mahád devānām asura-tvám ékam ||
As of a hero battling, the inmost turns back and beholds the whole that has come toward him. The inward thought moves to the hidden seat of the Ray (go): one is the vast lordship of the gods.
शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् । अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥शूरस्यइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आयत् । अन्तः । मतिः । चरति । निःसिधम् । गोः । महत् । देवानाम् । असुरत्वम् । एकम् ॥śūrasya-iva | yudhyataḥ | antamasya | pratīcīnam | dadṛśe | viśvam | āyat | antaḥ | matiḥ | carati | niḥ-sidham | goḥ | mahat | devānām | asura-tvam | ekam