Sukta 3.55
शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः । मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एक॑: । मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
śayúḥ parástād ádha nú dvi-mātā́ abandhánaś carati vátsa ékaḥ | mitrásya tā́ váruṇasya vratā́ni mahád devā́nām asura-tvám ékam ||
Lying beyond, then indeed the two-mothered One—unbound—moves as the single Calf. These are the laws of Mitra and of Varuṇa: one vast asura-might of the Gods.
श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्विऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ । मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥शयुः । परस्तात् । अध । नु । द्विमाता । अबन्धनः । चरति । वत्सः । एकः । मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरत्वम् । एकम् ॥śayuḥ | parastāt | adha | nu | dvi-mātā | abandhanaḥ | carati | vatsaḥ | ekaḥ | mi trasya | tā | varuṇasya | vratāni | mahat | devānām | asura-tvam | ekam