Sukta 3.55
आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः । अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥
आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः । अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
ā-kṣít pū́rvāsv áparā anū́rut sadyó jātā́su táruṇīṣv antáḥ | antár-vatīḥ suvaté ápravītā mahád devā́nām asura-tvám ékam ||
The later is established within the earlier; the unresounding one is within the newly born young forms. The inwardly-bearing brings forth, though unannounced—one vast asura-might of the Gods.
आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ । अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑वीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥आक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति । अन्तःवतीः । सुवते । अप्रवीताः । महत् । देवानाम् । असुरत्वम् । एकम् ॥ākṣit | pūrvāsu | aparāḥ | anūrut | sadyaḥ | jātāsutaruṇīṣu | antariti | antaḥ-vatīḥ | suvate | apravītāḥ | mahat | devānām | asura-tvam | ekam