Sukta 3.55
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ । अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
samānáḥ rājā́ ví-bhṛtaḥ puru-trā́ śáye śayā́su prá-yuto vánānu | anyā́ vátsaṃ bhárati kṣéti mātā́ mahád devā́nām asura-tvám ékam ||
One and the same King is borne in many ways; he lies in the resting-places, moving through the woods. Another bears the calf; the Mother dwells and nurtures—one vast asura-might of the Gods.
स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ । अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥समानः । राजा । विभृतः । पुरुत्रा । शये । शयासु । प्रयुतः । वना । अनु । अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरत्वम् । एकम् ॥samānaḥ | rājā | vi-bhṛtaḥ | puru-trā | śaye | śayāsu | pra-yutaḥ | vanā | anu | anyā | vatsam | bharati | kṣeti | mātā | mahat | devānām | asura-tvam | ekam