Sukta 3.55
इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ । पु॒र॒:सद॑: शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
imā́ṃ ca naḥ pṛthivī́ṃ viśvadhā́yā upá kṣeti hitámitro ná rājā | puráḥ-sádaḥ śárma-sado ná vīrā́ mahád devā́nām asura-tvám ékam ||
And this earth of ours, the all-supporting, he dwells near as a king with a beneficent friendship. Like heroes seated in the front, seated in the shelter, he establishes protection—one great sovereignty of the gods, the single Asura-might.
इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ । पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥इमाम् । च । नः । पृथिवीम् । विश्वधायाः । उप । क्षेति । हितमित्रः । न । राजा । पुरःसदः । शर्मसदः । न । वीराः । महत् । देवानाम् । असुरत्वम् । एकम् ॥imām | ca | naḥ | pṛthivīm | viśva-dhāyāḥ | upa | kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | mahat | devānām | asura-tvam | ekam