Sukta 3.55
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥
मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तर॑: पद॒ज्ञाः । पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
mó ṣū́ no átra juhuranta devā́ mā́ pū́rve agne pítaraḥ pada-jñā́ḥ | purāṇyóḥ sádmanoḥ ketúr antár mahád devā́nām asura-tvám ékam ||
Let not the Gods here cast us away; nor let the former Fathers, knowers of the path, reject us, O Agni. Within the two ancient dwellings the beacon is set—one vast asura-might of the Gods.
मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः । पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । पूर्वे । अग्ने । पितरः । पदज्ञाः । पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुरत्वम् । एकम् ॥mo iti | su | naḥ | atra | juhuranta | devāḥ | mā | pūrve | agne | pitaraḥ | pada-jñāḥ | purāṇyoḥ | sadmanoḥ | ketuḥ | antaḥ | mahat | devānām | asura-tvam | ekam