Sukta 3.55
उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः । व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥
उ॒षस॒: पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः । व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
uṣásaḥ pū́rvā ádha yád vy-ū́ṣur mahád ví jajñe ákṣaraṃ padé góḥ | vratā́ devā́nām úpa nú pra-bhū́ṣan mahád devā́nām asura-tvám ékam ||
When the former Dawns have opened out, then is born the great imperishable Word in the step of the Light. Adorning and manifesting the laws of the Gods, there stands revealed the one vast Asura-might of the divine Powers.
उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः । व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥उषसः । पूर्वाः । अध । यत् । विऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः । व्रता । देवानाम् । उप । नु । प्रभूषन् । महत् । देवानाम् । असुरत्वम् । एकम् ॥uṣasaḥ | pūrvāḥ | adha | yat | vi-ūṣuḥ | mahat | vi | jajñe | akṣaram | pade | goḥ | vratā | devānām | upa | nu | pra-bhūṣan | mahat | devānām | asura-tvam | ekam