Sukta 3.55
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥
दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
devás tváṣṭā savitā́ viśvarū́paḥ pupóṣa prajā́ḥ purudhā́ jajāna | imā́ ca víśvā bhúvanāny asya mahád devā́nām asura-tvám ékam ||
The divine Fashioner, Savitṛ of all-forms, nourished the births; manifoldly he brought forth the peoples and these worlds. This is his: one great sovereignty of the gods, the single Asura-might.
दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥देवः । त्वष्टा । सविता । विश्वरूपः । पुपोष । प्रजाः । पुरुधा । जजान । इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरत्वम् । एकम् ॥devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | pupoṣa | pra-jāḥ | purudhā | jajāna | imā | ca | viśvā | bhuvanāni | asya | mahat | devānām | asura-tvam | ekam