Sukta 3.55
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः । षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥
वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒: प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
vīrásya nú sváśvyaṃ janā́saḥ prá nú vocāma vidúr asya devā́ḥ | ṣóḷhā yuktā́ḥ páñca-pañcā́ vahanti mahád devā́nām asura-tvám ékam ||
O people, now let us proclaim the hero’s good chariot-horsed power; the gods know it. Sixteen yoked, five and five, bear it onward—one great sovereignty of the gods, the single Asura-might.
वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः । षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥वीरस्य । नु । सुअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः । षोळ्हा । युक्ताः । पञ्चपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरत्वम् । एकम् ॥vīrasya | nu | su-aśvyam | janāsaḥ | pra | nu | vocāma | viduḥ | asya | devāḥ | ṣoḷhā | yuktāḥ | pañca-pañca | ā | vahanti | mahat | devānām | asura-tvam | ekam