Sukta 3.55
यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः । स हि क्षपावान्त्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेत॑: । स हि क्षपा॑वा॒न्त्स भग॒: स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
yád anyā́su vṛṣabhó róravīti sá anyásmin yūthé ní dadhāti rétaḥ | sá hí kṣapā́vān sá bhágaḥ sá rājā mahád devā́nām asura-tvám ékam ||
When the Bull-force roars among other herds, he sets his seed of power into another company. For he is the lord of the nights (the master of obscurity), he is Bhaga the giver of delight, he is the King: one great sovereignty of the gods, the single Asura-might.
यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ । सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः । सः । हि । क्षपावान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरत्वम् । एकम् ॥yat | anyāsu | vṛṣabhaḥ | roravīti | saḥ | anyasmin | yūthe | ni | dadhāti | retaḥ | saḥ | hi | kṣapāvān | saḥ | bhagaḥ | saḥ | rājā | mahat | devānām | asura-tvam | ekam