Sukta 3.55
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥
आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑: शश॒या अप्र॑दुग्धाः । नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
ā́ dhenávo dhunayantām áśiśvīḥ sabardúghāḥ śaśayā́ ápra-dugdhāḥ | návyā-navyā yuvatáyo bhávantīr mahád devānām asura-tvám ékam ||
Let the cows shake themselves into motion—unexhausted, milking together, never yet fully milked out. Ever new, they become young again and again: one is the vast lordship of the gods.
आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः । नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःदुघाः । शशयाः । अप्रदुग्धाः । नव्याःनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरत्वम् । एकम् ॥ā | dhenavaḥ | dhunayantām | aśiśvīḥ | sabaḥ-dughāḥ | śaśayāḥ | apra-dugdhāḥ | navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ | mahat | devānām | asura-tvam | ekam