Sukta 3.55
पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् । सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥
प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् । स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
padé iva níhite dasmé antás táyor anyád gúhyam āvír anyát | sadhrīcīnā́ pathyā́ sā́ víṣūcī mahád devānām asura-tvám ékam ||
As if two footprints set down within the wondrous, of the two one is hidden, the other is manifest. One is the straight-going path, the other diverges: one is the vast lordship of the gods.
प॒देइ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् । स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥पदेइवेति पदेइव । निहिते इति निहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् । सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरत्वम् । एकम् ॥padeivetipade--iva | nihiteitini-hite | dasme | antariti | tayoḥ | anyat | guhyam | āviḥ | anyat | sadhrīcīnā | pathyā | sā | viṣūcī | mahat | devānām | asura-tvam | ekam