Sukta 3.55
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा । ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥
पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा । ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
pádyā vaste puru-rū́pā vapū́ṃṣy ūrdhvā́ tasthau tri-avíṁ rérihāṇā | ṛtásya sádma ví carāmi vidvā́n mahád devānām asura-tvám ékam ||
By her steps she clothes herself in many forms; upright she stands, licking the threefold nourishment. Knowing, I move through the home of Ṛta: one is the vast lordship of the gods.
पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा । ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥पद्या । वस्ते । पुरुरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिअविम् । रेरिहाणा । ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरत्वम् । एकम् ॥padyā | vaste | puru-rūpā | vapūṃṣi | ūrdhvā | tasthau | tri-avim | rerihāṇā | ṛtasya | sadma | vi | carāmi | vidvān | mahat | devānām | asura-tvam | ekam