Sukta 3.55
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः । ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: । ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
anyásyā vatsáṁ rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ | ṛtásya sā́ páyasāpinvatéḷā mahád devānām asura-tvám ékam ||
Licking the calf of another, she lows; by what becoming does the cow set down her udder? She swells by the milk of Ṛta—Ilā: one is the vast lordship of the gods.
अ॒न्यस्याः॑ । व॒त्सम् । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ । ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥अन्यस्याः । वत्सम् । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः । ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरत्वम् । एकम् ॥anyasyāḥ | vatsam | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ | ṛtasya | sā | payasā | apinvata | iḷā | mahat | devānām | asura-tvam | ekam